Wednesday, 10 June 2026

संस्कृत राम स्तुति

शुद्ध संशोधित रचना-राम-स्तुतिः"
`

लोभो नास्ति मोहो नास्ति, शोको नास्ति कामः।
अपमानस्य चिन्ता, न पश्यति च दक्षिणं न वामम्॥
रात्रिंदिवं प्राणेनासौ,जपेन्नित्यं गुणान् रामे
यत्र रामस्तत्र न रोगो, न शोको, न कामः।
क्रोधो द्रोहो मोहो न सन्ति, चित्तं निष्कामम्॥
देहात् गेहात् विरक्तोऽयं, न च बद्धो हि वामया॥
रङ्गसङ्गाद् विरक्तोऽयं, चित्ते हि सः उपरमः॥
ग्रीष्मवृष्टिशरत्काले अविचलो गुणग्रामः॥
नामग्रामे न भेदोऽस्य, त्यजति पोटलिकाम्॥
दुःखसुखे विश्वगते, चित्तं याति विरामम्॥
रङ्गसङ्गाद् विरक्तोऽयं, चित्ते हि सः उपरमः॥
शान्तचित्तवृत्तौ सततं, लभते स विश्रामम्॥
मनुते जानाति च सः, सर्वत्र पश्यति रामम्॥
सम्माने नास्ति तृष्णा, न भयं चापमानतः॥
भेदबुद्धिर्विनष्टा, निर्मलां धियम् लब्धवान् ॥
सोऽहं ब्रह्मेति जानाति, लभते मुक्तिधाम च॥
शुभचन्द्रार्कसुशोभे, हृदि वसति मोहन रामः॥

शुभचन्द्रसूर्या शोभामोहन 

संस्कृत राम स्तुति

शुद्ध संशोधित रचना-राम-स्तुतिः" ` लोभो नास्ति मोहो नास्ति, शोको नास्ति कामः। अपमानस्य चिन्ता, न पश्यति च दक्षिणं न वामम्॥ रात्रिंदि...